Kamakhya Kavacham – कामाख्या कवचम्

॥ कामाख्या कवचम् ॥

कामाख्या ध्यानम्

रविशशियुतकर्णा कुंकुमापीतवर्णा

मणिकनकविचित्रा लोलजिह्वा त्रिनेत्रा ।

अभयवरदहस्ता साक्षसूत्रप्रहस्ता

प्रणतसुरनरेशा सिद्धकामेश्वरी सा ॥ १॥

 

अरुणकमलसंस्था रक्तपद्मासनस्था

नवतरुणशरीरा मुक्तकेशी सुहारा ।

शवहृदि पृथुतुङ्गा स्वाङ्घ्रियुग्मा मनोज्ञा

शिशुरविसमवस्त्रा सर्वकामेश्वरी सा ॥ २॥

 

विपुलविभवदात्री स्मेरवक्त्रा सुकेशी

दलितकरकदन्ता सामिचन्द्रावतंसा ।

मनसिज-दृशदिस्था योनिमुद्रालसन्ती

पवनगगनसक्ता संश्रुतस्थानभागा ।

चिन्ता चैवं दीप्यदग्निप्रकाशा

धर्मार्थाद्यैः साधकैर्वाञ्छितार्था ॥ ३॥

कामाख्या-कवचम्

 

ॐ कामाख्याकवचस्य मुनिर्बृहस्पतिः स्मृतः ।

देवी कामेश्वरी तस्य अनुष्टुप्छन्द इष्यते ॥

 

विनियोगः सर्वसिद्धौ तञ्च शृण्वन्तु देवताः ।

शिराः कामेश्वरी देवी कामाख्या चक्षूषी मम ॥

 

शारदा कर्णयुगलं त्रिपुरा वदनं तथा ।

कण्ठे पातु माहामाया हृदि कामेश्वरी पुनः ॥

 

कामाख्या जठरे पातु शारदा पातु नाभितः ।

त्रिपुरा पार्श्वयोः पातु महामाया तु मेहने ॥

 

गुदे कामेश्वरी पातु कामाख्योरुद्वये तु माम् ।

जानुनोः शारदा पातु त्रिपुरा पातु जङ्घयोः ॥

 

माहामाया पादयुगे नित्यं रक्षतु कामदा ।

केशे कोटेश्वरि पातु नासायां पातु दीर्घिका ॥

 

भैरवी (शुभगा)  दन्तसङ्घाते मातङ्ग्यवतु चाङ्गयोः ।

बाह्वोर्मे ललिता पातु पाण्योस्तु वनवासिनी ॥

 

विन्ध्यवासिन्यङ्गुलीषु श्रीकामा नखकोटिषु ।

रोमकूपेषु सर्वेषु गुप्तकामा सदावतु ॥

 

पादाङ्गुली पार्ष्णिभागे पातु मां भुवनेश्वरी ।

जिह्वायां पातु मां सेतुः कः कण्टाभ्यन्तरेऽवतु ॥

 

पातु नश्चान्तरे वक्षः ईः पातु जठरान्तरे ।

सामीन्दुः पातु मां वस्तौ विन्दुर्विन्द्वन्तरेऽवतु ॥

 

ककारस्त्वचि मां पातु रकारोऽस्थिषु सर्वदा ।

लकारः सर्वनाडिषु ईकारः सर्वसन्धिषु ॥

 

चन्द्रः स्नायुषु मां पातु विन्दुर्मज्जासु सन्ततम् ।

पूर्वस्यां दिशि चाग्नेय्यां दक्षिणे नैरृते तथा ॥

 

वारुणे चैव वायव्यां कौबेरे हरमन्दिरे ।

अकाराद्यास्तु वैष्णव्याः अष्टौ वर्णास्तु मन्त्रगाः ॥

 

पान्तु तिष्ठन्तु सततं समुद्भवविवृद्धये ।

ऊर्द्ध्वाधः पातु सततं मां तु सेतुद्वये सदा ॥

 

नवाक्षराणि मन्त्रेषु शारदा मन्त्रगोचरे ।

नवस्वरास्तु मां नित्यं नासादिषु समन्ततः ॥

 

वातपित्तकफेभ्यस्तु त्रिपुरायास्तु त्र्यक्षरम् ।

नित्यं रक्षतु भूतेभ्यः पिशाचेभ्यस्तथैव च ॥

 

तत् सेतु सततं पातु क्रव्याद्भ्यो मान्निवारकम्

नमः कामेश्वरीं देवीं महामायां जगन्मयीम् ।

या भूत्वा प्रकृतिर्नित्या तनोति जगदायतम् ॥

 

कामाख्यामक्षमालाभयवरदकरां सिद्धसूत्रैकहस्तां

श्वेतप्रेतोपरिस्थां मणिकनकयुतां कुङ्कमापीतवर्णाम् ।

ज्ञानध्यानप्रतिष्ठामतिशयविनयां ब्रह्मशक्रादिवन्द्या-

मग्नौ विन्द्वन्तमन्त्रप्रियतमविषयां नौमि विन्ध्याद्र्यतिस्थाम् ॥ 

मध्ये मध्यस्य भागे सततविनमिता भावहारावली या

लीलालोकस्य कोष्ठे सकलगुणयुता व्यक्तरूपैकनम्रा ।

विद्या विद्यैकशान्ता शमनशमकरी क्षेमकर्त्री वरास्या

नित्यं पायात् पवित्रप्रणववरकरा कामपूर्वेश्वरी नः ॥

 

इति हरेः कवचं तनुकेस्थितं शमयति वै शमनं तथा यदि ।

इह गृहाण यतस्व विमोक्षणे सहित एष विधिः सह चामरैः ॥

 

इतीदं कवचं यस्तु कामाख्यायाः पठेद्बुधः ।

सुकृत् तं तु महादेवी तनु व्रजति नित्यदा ॥

 

नाधिव्याधिभयं तस्य न क्रव्याद्भ्यो भयं तथा ।

नाग्नितो नापि तोयेभ्यो न रिपुभ्यो न राजतः ॥

 

दीर्घायुर्बहुभोगी च पुत्रपौत्रसमन्वितः ।

आवर्तयन् शतं देवीमन्दिरे मोदते परे ॥

 

यथा तथा भवेद्बद्धः सङ्ग्रामेऽन्यत्र वा बुधः ।

तत्क्षणादेव मुक्तः स्यात् स्मारणात् कवचस्य तु ॥

Source: Internet

Author: Admn

Leave a Reply

Your email address will not be published. Required fields are marked *